
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः || 1 ||
पूतात्मा परमात्मा च मुक्तानां परमागतिः |
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च || 2 ||
योगो योगविदां नेता प्रधान पुरुषेश्वरः |
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः || 3 ||
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः |
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः || 4 ||
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः |
अनादिनिधनो धाता विधाता धातुरुत्तमः || 5 ||
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः |
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः || 6 ||
अग्राह्यः शाश्वतो कृष्णो लोहिताक्षः प्रतर्दनः |
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् || 7 ||
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः |
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः || 8 ||
ईश्वरो विक्रमीधन्वी मेधावी विक्रमः क्रमः |
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्|| 9 ||
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः |
अहस्संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः || 10 ||
अजस्सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः |
वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः || 11 ||
वसुर्वसुमनाः सत्यः समात्मा सम्मितस्समः |
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः || 12 ||
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः |
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः || 13 ||
सर्वगः सर्व विद्भानुर्विष्वक्सेनो जनार्दनः |
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः || 14 ||
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः |
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः || 15 ||
भ्राजिष्णुर्भोजनं भोक्ता सहिष्नुर्जगदादिजः |
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः || 16 ||
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः |
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः || 17 ||
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः |
अतीन्द्रियो महामायो महोत्साहो महाबलः || 18 ||
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः |
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् || 19 ||
महेश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः |
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः || 20 ||
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः |
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः || 21 ||
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः |
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा || 22 ||
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः |
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः || 23 ||
अग्रणीग्रामणीः श्रीमान् न्यायो नेता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् || 24 ||
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः |
अहः संवर्तको वह्निरनिलो धरणीधरः || 25 ||
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः |
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः || 26 ||
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः |
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धि साधनः || 27 ||
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः |
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः || 28 ||
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः |
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः || 29 ||
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः |
ऋद्दः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः || 30 ||
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः |
औषधं जगतः सेतुः सत्यधर्मपराक्रमः || 31 ||
भूतभव्यभवन्नाथः पवनः पावनोऽनलः |
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः || 32 ||
युगादि कृद्युगावर्तो नैकमायो महाशनः |
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् || 33 ||
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः |
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः || 34 ||
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः |
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः || 35 ||
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः |
वासुदेवो बृहद्भानुरादिदेवः पुरन्धरः || 36 ||
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः |
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः || 37 ||
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् |
महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः || 38 ||
अतुलः शरभो भीमः समयज्ञो हविर्हरिः |
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः || 39 ||
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः |
महीधरो महाभागो वेगवानमिताशनः || 40 ||
उद्भवः, क्षोभणो देवः श्रीगर्भः परमेश्वरः |
करणं कारणं कर्ता विकर्ता गहनो गुहः || 41 ||
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः |
परर्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः || 42 ||
रामो विरामो विरजो मार्गोनेयो नयोऽनयः |
वीरः शक्तिमतां श्रेष्ठो धर्मोधर्म विदुत्तमः || 43 ||
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः |
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः || 44 ||
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः |
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः || 45 ||
विस्तारः स्थावर स्थाणुः प्रमाणं बीजमव्ययं |
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः || 46 ||
अनिर्विण्णः स्थविष्ठो भूद्धर्मयूपो महामखः |
नक्षत्रनेमिर्नक्षत्री क्षमः, क्षामः समीहनः || 47 ||
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सताङ्गतिः |
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं || 48 ||
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् |
मनोहरो जितक्रोधो वीर बाहुर्विदारणः || 49 ||
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्| |
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः || 50 ||
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्||
अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः || 51 ||
गभस्तिनेमिः सत्त्वस्थः सिंहो भूत महेश्वरः |
आदिदेवो महादेवो देवेशो देवभृद्गुरुः || 52 ||
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः |
शरीर भूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः || 53 ||
सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः |
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः || 54 ||
जीवो विनयिता साक्षी मुकुन्दोऽमित विक्रमः |
अम्भोनिधिरनन्तात्मा महोदधि शयोन्तकः || 55 ||
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः |
आनन्दोऽनन्दनोनन्दः सत्यधर्मा त्रिविक्रमः || 56 ||
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः |
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् || 57 ||
महावराहो गोविन्दः सुषेणः कनकाङ्गदी |
गुह्यो गभीरो गहनो गुप्तश्चक्र गदाधरः || 58 ||
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः |
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः || 59 ||
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः |
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः || 60 ||
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः |
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः || 61 ||
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् |
सन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्| 62 ||
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः |
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः || 63 ||
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः |
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः || 64 ||
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः |
श्रीधरः श्रीकरः श्रेयः श्रीमांल्लोकत्रयाश्रयः || 65 ||
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः |
विजितात्माऽविधेयात्मा सत्कीर्तिच्छिन्नसंशयः || 66 ||
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः |
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः || 67 ||
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः |
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः || 68 ||
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः |
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः || 69 ||
कामदेवः कामपालः कामी कान्तः कृतागमः |
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः || 70 ||
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः |
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः || 71 ||
महाक्रमो महाकर्मा महातेजा महोरगः |
महाक्रतुर्महायज्वा महायज्ञो महाहविः || 72 ||
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः |
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः || 73 ||
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः |
वसुप्रदो वासुदेवो वसुर्वसुमना हविः || 74 ||
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः |
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः || 75 ||
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः |
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः || 76 ||
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् |
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः || 77 ||
एको नैकः सवः कः किं यत्तत् पदमनुत्तमं |
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः || 78 ||
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी |
वीरहा विषमः शून्यो घृताशीरचलश्चलः || 79 ||
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् |
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः || 80 ||
तेजोऽवृषो द्युतिधरः सर्वशस्त्रभृतांवरः |
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः || 81 ||
चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गतिः |
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् || 82 ||
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः |
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा || 83 ||
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः |
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः || 84 ||
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः |
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी || 85 ||
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः |
महाहृदो महागर्तो महाभूतो महानिधिः || 86 ||
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः |
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः || 87 ||
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः |
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्र निषूदनः || 88 ||
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः |
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः || 89 ||
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् |
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः || 90 ||
भारभृत् कथितो योगी योगीशः सर्वकामदः |
आश्रमः श्रमणः, क्षामः सुपर्णो वायुवाहनः || 91 ||
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः |
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः || 92 ||
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः |
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः || 93 ||
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः |
रविर्विरोचनः सूर्यः सविता रविलोचनः || 94 ||
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः |
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः || 95 ||
सनात्सनातनतमः कपिलः कपिरव्ययः |
स्वस्तिदः स्वस्तिकृत्स्वस्तिः स्वस्तिभुक् स्वस्तिदक्षिणः || 96 ||
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः |
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः || 97 ||
अक्रूरः पेशलो दक्षो दक्षिणः, क्षमिणांवरः |
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः || 98 ||
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः |
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः || 99 ||
अनन्तरूपोऽनन्त श्रीर्जितमन्युर्भयापहः |
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः || 100 ||
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः |
जननो जनजन्मादिर्भीमो भीमपराक्रमः || 101 ||
आधारनिलयोऽधाता पुष्पहासः प्रजागरः |
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः || 102 ||
प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः |
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः || 103 ||
भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः |
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः || 104 ||
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक् यज्ञसाधनः |
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च || 105 ||
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः |
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः || 106 ||
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः |
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः || 107 ||
#शर #वषणसहसरनम #सततर #हनद #पचग #बलग