श्री मन्यु सुक्तम – हिन्दू पंचांग ब्लॉग

यस्ते” मन्योऽवि’धद् वज्र सायक सह ओजः’ पुष्यति विश्व’मानुषक् |
साह्याम दासमार्यं त्वया” युजा सह’स्कृतेन सह’सा सह’स्वता || 1 ||

मन्युरिन्द्रो” मन्युरेवास’ देवो मन्युर् होता वरु’णो जातवे”दाः |
मन्युं विश’ ईलते मानु’षीर्याः पाहि नो” मन्यो तप’सा सजोषा”ः || 2 ||

अभी”हि मन्यो तवसस्तवी”यान् तप’सा युजा वि ज’हि शत्रू”न् |
अमित्रहा वृ’त्रहा द’स्युहा च विश्वा वसून्या भ’रा त्वं नः’ || 3 ||

त्वं हि म”न्यो अभिभू”त्योजाः स्वयम्भूर्भामो” अभिमातिषाहः |
विश्वच’र्-षणिः सहु’रिः सहा”वानस्मास्वोजः पृत’नासु धेहि || 4 ||

अभागः सन्नप परे”तो अस्मि तव क्रत्वा” तविषस्य’ प्रचेतः |
तं त्वा” मन्यो अक्रतुर्जि’हीलाहं स्वातनूर्ब’लदेया”य मेहि’ || 5 ||

अयं ते” अस्म्युप मेह्यर्वाङ् प्र’तीचीनः स’हुरे विश्वधायः |
मन्यो” वज्रिन्नभि मामा व’वृत्स्वहना”व दस्यू”न् ऋत बो”ध्यापेः || 6 ||

अभि प्रेहि’ दक्षिणतो भ’वा मेऽधा” वृत्राणि’ जङ्घनाव भूरि’ |
जुहोमि’ ते धरुणं मध्वो अग्र’मुभा उ’पांशु प्र’थमा पि’बाव || 7 ||

त्वया” मन्यो सरथ’मारुजंतो हर्ष’माणासो धृषिता म’रुत्वः |
तिग्मेष’व आयु’धा संशिशा”ना अभि प्रयं”तु नरो” अग्निरू”पाः || 8 ||

अग्निरि’व मन्यो त्विषितः स’हस्व सेनानीर्नः’ सहुरे हूत ए”धि |
हत्वाय शत्रून् वि भ’जस्व वेद ओजो मिमा”नो विमृधो” नुदस्व || 9 ||

सह’स्व मन्यो अभिमा”तिमस्मे रुजन् मृणन् प्र’मृणन् प्रेहि शत्रू”न् |
उग्रं ते पाजो” नन्वा रु’रुध्रे वशी वशं” नयस एकज त्वम् || 10 ||

एको” बहूनाम’सि मन्यवीलितो विशं”विशं युधये सं शि’शाधि |
अकृ’त्तरुक् त्वया” युजा वयं द्युमंतं घोषं” विजयाय’ कृण्महे || 11 ||

विजेषकृदिन्द्र’ इवानवब्रवो(ओ)3’ऽस्माकं” मन्यो अधिपा भ’वेह |
प्रियं ते नाम’ सहुरे गृणीमसि विद्मातमुत्सं यत’ आबभूथ’ || 12 ||

आभू”त्या सहजा व’ज्र सायक सहो” बिभर्ष्यभिभूत उत्त’रम् |
क्रत्वा” नो मन्यो सहमेद्ये”धि महाधनस्य’ पुरुहूत संसृजि’ || 13 ||

संसृ’ष्टं धन’मुभयं” समाकृ’तमस्मभ्यं” दत्तां वरु’णश्च मन्युः |
भियं दधा”ना हृद’येषु शत्र’वः परा”जितासो अप निल’यन्ताम् || 14 ||

धन्व’नागाधन्व’ नाजिञ्ज’येम धन्व’ना तीव्राः समदो” जयेम |
धनुः शत्रो”रपकामं कृ’णोति धन्व’ नासर्वा”ः प्रदिशो” जयेम ||

भद्रं नो अपि’ वातय मनः’ ||

#शर #मनय #सकतम #हनद #पचग #बलग

Leave a Comment