
|| श्री शिवकवच स्तोत्र ||
महामन्त्रस्य ऋषभयोगीश्वर ऋषिः |
अनुष्टुप् छन्दः |
श्रीसाम्बसदाशिवो देवता |
ॐ बीजम् |
नमः शक्तिः |
शिवायेति कीलकम् |
मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ||
करन्यासः
ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः |
नं गङ्गाधराय तर्जनीभ्यां नमः |
मं मृत्युञ्जयाय मध्यमाभ्यां नमः |
शिं शूलपाणये अनामिकाभ्यां नमः |
वां पिनाकपाणये कनिष्ठिकाभ्यां नमः |
यं उमापतये करतलकरपृष्ठाभ्यां नमः |
हृदयादि अङ्गन्यासः
ॐ सदाशिवाय हृदयाय नमः |
नं गङ्गाधराय शिरसे स्वाहा |
मं मृत्युञ्जयाय शिखायै वषट् |
शिं शूलपाणये कवचाय हुं |
वां पिनाकपाणये नेत्रत्रयाय वौषट् |
यं उमापतये अस्त्राय फट् |
भूर्भुवस्सुवरोमिति दिग्बन्धः ||
ध्यानम्
वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् |
सहस्रकरमत्युग्रं वन्दे शम्भुं उमापतिम् ||
रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः |
पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ||
अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् |
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते ||
मन्त्रः
ऋषभ उवाच
नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् |
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् || 1 ||
शुचौ देशे समासीनो यथावत्कल्पितासनः |
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम् || 2 ||
हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभोऽवकाशम् |
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत् परानन्दमयं महेशम् ||
ध्यानावधूताखिलकर्मबन्ध- श्चिरं चिदानन्द निमग्नचेताः |
षडक्षरन्यास समाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ||
मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे |
तन्नाम दिव्यं परमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ||
सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्योतिर्मयानन्दघनश्चिदात्मा |
अणोरणियानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ||
यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः |
योऽपां स्वरूपेण नृणां करोति सञ्जीवनं सोऽवतु मां जलेभ्यः ||
कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः |
स कालरुद्रोऽवतु मां दवाग्नेः वात्यादिभीतेरखिलाच्च तापात् ||
प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणिः |
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ||
कुठारखेटाङ्कुश शूलढक्का- कपालपाशाक्ष गुणान्दधानः |
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ||
कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमाला वरदाभयाङ्कः |
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योऽधिजातोऽवतु मां प्रतीच्याम् ||
वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः |
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ||
वेदाभयेष्टाङ्कुशटङ्कपाश- कपालढक्काक्षरशूलपाणिः |
सितद्युतिः पञ्चमुखोऽवतान्मां ईशान ऊर्ध्वं परमप्रकाशः ||
मूर्धानमव्यान्मम चन्द्रमौलिः भालं ममाव्यादथ भालनेत्रः |
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ||
पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली |
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ||
कण्ठं गिरीशोऽवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः |
दोर्मूलमव्यान्मम धर्मबाहुः वक्षःस्थलं दक्षमखान्तकोऽव्यात् ||
ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी |
हेरम्बतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे ||
ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् |
जङ्घायुगं पुङ्गवकेतुरव्यात् पादौ ममाव्यात्सुरवन्द्यपादः ||
महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः |
त्रिलोचनः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ||
पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे |
गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ||
अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् |
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ||
तिष्ठन्तमव्याद् भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः |
वेदान्तवेद्योऽवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ||
मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः |
अरण्यवासादि महाप्रवासे पायान्मृगव्याध उदारशक्तिः ||
कल्पान्तकालोग्रपटुप्रकोप- स्फुटाट्टहासोच्चलिताण्डकोशः |
घोरारिसेनार्णव दुर्निवार- महाभयाद्रक्षतु वीरभद्रः ||
पत्त्यश्वमातङ्गरथावरूथिनी- सहस्रलक्षायुत कोटिभीषणम् |
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठार धारया ||
निहन्तु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरान्तकस्य |
शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीशधनुः पिनाकः ||
दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य-
दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि |
उत्पाततापविषभीतिमसद्ग्रहार्तिं
व्याधींश्च नाशयतु मे जगतामधीशः ||
|| हर हर मृत्युञ्जय त्र्यम्बक सदाशिव परमशिव नमस्ते नमस्ते नमः ||
|| पूर्ववत् – हृदयादि न्यासः |
|| पञ्चपूजा ||
|| भूर्भुवस्सुवरोमिति दिग्विमोकः ||
फलश्रुतिः
ऋषभ उवाच
इत्येतत्परमं शैवं कवचं व्याहृतं मया |
सर्व बाधा प्रशमनं रहस्यं सर्व देहिनाम् ||
यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् |
न तस्य जायते कापि भयं शम्भोरनुग्रहात् ||
क्षीणायुः प्राप्तमृत्युर्वा महारोगहतोऽपि वा |
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ||
सर्वदारिद्रयशमनं सौमाङ्गल्यविवर्धनम् |
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ||
महापातकसङ्घातैर्मुच्यते चोपपातकैः |
देहान्ते मुक्तिमाप्नोति शिववर्मानुभावतः ||
त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम् |
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ||
श्रीसूत उवाच
इत्युक्त्वा ऋषभो योगी तस्मै पार्थिव सूनवे |
ददौ शङ्खं महारावं खड्गं च अरिनिषूदनम् ||
पुनश्च भस्म संमन्त्र्य तदङ्गं परितोऽस्पृशत् |
गजानां षट्सहस्रस्य त्रिगुणस्य बलं ददौ ||
भस्मप्रभावात् सम्प्राप्तबलैश्वर्य धृति स्मृतिः |
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ||
तमाह प्राञ्जलिं भूयः स योगी नृपनन्दनम् |
एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः ||
शितधारमिमं खड्गं यस्मै दर्शयसे स्फुटम् |
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ||
अस्य शङ्खस्य निर्ह्रादं ये शृण्वन्ति तवाहिताः |
ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ||
खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशकौ |
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ||
एतयोश्च प्रभावेन शैवेन कवचेन च |
द्विषट्सहस्र नागानां बलेन महतापि च ||
भस्मधारण सामर्थ्याच्छत्रुसैन्यं विजेष्यसे |
प्राप्य सिंहासनं पित्र्यं गोप्ताऽसि पृथिवीमिमाम् ||
इति भद्रायुषं सम्यगनुशास्य समातृकम् |
ताभ्यां सम्पूजितः सोऽथ योगी स्वैरगतिर्ययौ ||
|| इति श्रीस्कान्दमहापुराणे ब्रह्मोत्तरखण्डे शिवकवच प्रभाव वर्णनं नाम द्वादशोऽध्यायः सम्पूर्णः ||
#शर #शवकवच #सततर #हनद #पचग #बलग